Ganapati Stotram

Ganapati Stotram



गणपतिस्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥

गजाननं भूतगणादिसेवितंकपित्थजम्बूफलसारभक्षितम् ।
उमासुतं शोकविनाशकारणंनमामि विघ्नेश्वरपादपंकजम् ॥ २ ॥

अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥ ३ ॥

श्रीकान्तो मातुलो यस्य जननी सर्वमंगला ।
जनकश्शंकरोदेवः तं वन्दे कुंजराननम् ॥ ४ ॥

वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ५ ॥

*****************************************

No comments:

Post a Comment