Ganesh Bhujangam

Ganesh Bhujangam

 

गणेशभुजंगम्
(श्री शंकराचार्यकृतम्)

रणत्क्षुद्रघण्टा निनादाभिरामं
चलत्ताण्डवोद्दण्डवत् पद्मतालम् ।
लसत्तुन्दिलांगोपरि व्यालहारं
गणाधीशमीशानसूनुं तमीडे ॥ १ ॥


ध्वनिध्वंसवीणालयोल्लासि वक्त्रं
स्फुरच्छुण्डदण्डोल्लसद् बीजपूरम् ।
गलद्दर्प सौगन्ध्य लोलालिमालं
गणाधीशमीशानसूनुं तमीडे ॥ २ ॥

प्रकाशज्जपारक्तरत्नप्रसून-
प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलंबोदरं वक्रतुण्डैकदंतं
गणाधीशमीशानसूनुं तमीडे ॥ ३ ॥

विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चंद्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥

उदञ्चद्भुजावल्लरीदृश्यमूलो-
च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुंदरीचामरैस्सेव्यमानं
गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥

स्फुरन्निष्ठुरालोलपिंगाक्षितारं
कृपाकोमलोदारलीलावतारम् ।
कलाबिंदुगं गीयते योगिवर्यैः
गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥

यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ।
परंपारमोंकारमाम्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥


चिदानन्द सान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनन्तलीलाय कैवल्यभासे
नमोविश्वबीज प्रसीदेशसूनो ॥ ८ ॥

इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान्
गणेशप्रसादेन सिद्ध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ ९ ॥

********************

No comments:

Post a Comment