Showing posts with label Sri Mooshikavahana Stotram. Show all posts
Showing posts with label Sri Mooshikavahana Stotram. Show all posts

Sri Mooshikavahana Stotram


Sri Mooshikavahana Stotram


श्रीमूषिकवाहनस्तोत्रम्

मूषिकवाहन मोदकहस्त चामरकर्ण विलंबित सूत्र ।
वामनरूप महेश्वरपुत्र विघ्नविनायक पादनमस्ते ॥ १ ॥

देवदेवसुतं देवं जगद्विघ्नविनायकम् ।
हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ २ ॥

वामनं जटिलं कांतं ह्रस्वग्रीवं महोदरम् ।
ताम्रसिंदूरयुग्गण्डं विकटं प्रकटोत्कटम् ॥ ३ ॥

एकदंतं प्रलंबोष्ठं नागयज्ञोपवीतिनम् ।
त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ४ ॥

दंतपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् ।
पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ५ ॥

देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् ।
देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ६ ॥

नमामि भगवन्तं तमद्भुतं गणनायकम् ।
वक्रतुंड प्रचंडाय उग्रतुंडाय ते नमः ॥ ७ ॥

चंडाय गुरुचंडाय चंडचंडाय ते नमः ।
मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ८ ॥

उमासुतं नमस्यामि गंगापुत्राय ते नमः ।
ओंकाराय वषट्कारस्वाहाकाराय ते नमः ॥ ९ ॥

मंत्रमूर्ते महायोगिन् जातवेदो नमोनमः ।
परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ १० ॥

मेघाय मेघवर्णाय मेघेश्वर नमोनमः ।
घोराय घोररूपाय घोरघोराय ते नमः ॥ ११ ॥

पुराणपूर्वपूज्याय पुरुषाय नमोनमः ।
मदोत्कट नमस्तेऽस्तु नमस्ते चंडविक्रम ॥ १२ ॥

विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल ।
भक्तप्रियाय शांताय महातेजस्विने नमः ॥ १३ ॥

यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमोनमः ।
नमस्ते भस्मशुक्लांग शुक्लमाल्यधराय च ॥ १५ ॥

मदक्लिन्नकपोलाय गणाधिपतये नमः ।
आखुवाहन देवेश एकदंताय ते नमः ॥ १६ ॥

शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः ।
विघ्नं हरतु देवेशः शिवपुत्रो विनायकः ॥ १७ ॥

एतन्मूषिकवाहस्य स्तोत्रं संध्याद्वयं पठेत् ।
विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥ १८ ॥

वैश्यस्तु धनमाप्नोति शूद्रः पापैः प्रमुच्यते।
गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् ॥ १९ ॥

प्रवासी लभते स्थानं बद्धो बंधात् प्रमुच्यते
इष्टसिद्धिमवाप्नोति पुनात्यासप्तमं कुलम्

सर्वमंगलमांगल्यं सर्वपापप्रणाशनं
सर्वकामप्रदं पुण्यं पठतां शृण्वतामपि

***************