Showing posts with label Sri Shodasha Mahaganapati Stutimala. Show all posts
Showing posts with label Sri Shodasha Mahaganapati Stutimala. Show all posts

Sri Shodasha Mahaganapati Stutimala

Sri Shodasha Mahaganapati Stutimala


श्रीषोडशमहागणपतिस्तुतिमाला

बालस्तरुणभक्तौ च वीरश्शक्तिध्वजस्तथा ।
सिद्धिरुच्छिष्टविघ्नेशः क्षिप्राहेरंबनायकः ॥ १ ॥

लक्ष्मीगणो महाविघ्नो विजयः कल्पहस्तकः ।
ऊर्ध्वविघ्नेशपर्यन्ताः षोडशैते गणाधिपाः ॥ २ ॥

धर्ममर्थं च कामं च लभते यत्प्रसादतः ।
स्तोत्रं तद्विघ्नराजस्य कथ्यते षोडशात्मकम् ॥ ३ ॥

करस्थकदलीचूतपनसेक्षुकमोदकम् ।
बालसूर्यप्रभं देवं वन्दे बालगणाधिपम् ॥ ४ ॥

पाशांकुशापूपकपित्थजंबू-
फलं तिलान् वेणुमपि स्वहस्तैः ।
धत्ते सदा यस्तरुणारुणाभः
पायात् स युष्मान् तरुणो गणेशः ॥ ५ ॥

नालिकेराम्रकदलीगुडपायसधारिणम् ।
शरच्चंद्राभवपुषं भजे भक्तगणाधिपम् ॥ ६ ॥

वेतालशक्तिशरकार्मुकचर्मखड्ग-
खट्वांगमुद्गरगदांकुशनागपाशान् ।
शूलं च कुन्तपरशुध्वजमुद्वहन्तं
वीरं गणेशमरुणं सततं स्मरामि ॥ ७ ॥

आलिंग्य देवीं हरितां निषण्णं
परस्परस्पृष्टकटीनिवेशम् ।
संध्यारुणं पाशसृणीवहन्तं
भयापहं शक्तिगणेशमीडे ॥ ८ ॥

यः पुस्तकाक्षगुणदण्डकमण्डलुश्री-
निर्वर्त्यमान करभूषणमिन्दुवर्णम्
स्तंबेरमाननचतुष्टयशोभमानं
नित्यं स्मरेत् ध्वजगणाधिपतिं स धन्यः ॥ ९ ॥

पक्वचूतफलकल्पमंजरीं
इक्षुदण्डतिलमोदकैस्सह ।
उद्वहन् परशुहस्त ते नमः
श्रीसमृद्धियुत देव पिंगल ॥ १० ॥


नीलाब्जं दाडिमी वीणा शालीगुंजाक्षसूत्रकम् ।
दधदुच्छिष्टनामाऽयं गणेशः पातु मोक्षदः ॥ ११ ॥

पाशांकुशस्वदन्ताम्रफलवानाखुवाहनः ।
विघ्नं निहन्तु नस्सर्वं रक्तवर्णो विनायकः ॥ १२ ॥

दन्तकल्पलतापाश रत्नकुंभांकुशोज्वलम् ।
बंधूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥ १३ ॥

अभयवरदहस्तः पाशदन्ताक्षमालाः
सृणिपरशुदधानो मुद्गरं मोदकं च ।
फलमधिगतसिंहः पंचमातंगवक्त्रो
गणपतिरतिगौरः पातु हेरंबनामा ॥ १४ ॥

बिभ्राणश्शुकबीजपूरकमलं माणिक्यकुंभांकुशौ
पाशंकल्पलतां च खड्गविलसद्ज्योतिस्सुधानिर्मलः ।
श्यामेनात्तसरोरुहेणसहितो देवीद्वयेनान्तिके
गौरांगो वरदानहस्तकमलो लक्ष्मीगणेशोऽवतात् ॥ १५ ॥

कल्हारांबुज बीजपूरकगदा दंतेक्षुबाणैस्समं
बिभ्राणो मणिकुंभचापकलमान् पाशं च चक्रान्वितम् ।
गौरांग्या रुचिरारविंदकरया देव्या सदा संयुतः
शोणांगः शुभमातनोतु भगवान् नित्यं गणेशो महान् ॥ १६ ॥

शंखेक्षुचापकुसुमेषुकुठारपाश-
चक्रांकुशैः कलममंजरिकागदाद्यैः ।
पाणिस्थितैः परिसमाहित भूषणश्रीः
विघ्नेश्वरो विजयते तपनीयगौरः ॥ १७ ॥
  

पाशांकुशापूपकुठारदंत- 
चंचत्कराकॢप्तवरांगुलीयकम् ।
पीतप्रभं कल्पतरोरधस्थं
भजामि नृत्तैकपदं गणेशम् ॥ १८ ॥

कल्हारशालिकमलेक्षुकचापबाण
दंतप्ररोहकगदी कनकोज्वलांगः।
आलिंगनोद्यतकरो हरितांगयष्ट्या
देव्या दिशत्वभयं ऊर्ध्वगणेश्वरो मे ॥ १९ ॥

इति विरचितं गणेशमूर्ति-
ध्यानपरं स्तवमागमार्थसारम् ।
पठति सततं गणेशभक्त्या
त्रिजगति तस्य न किंचिदप्यलभ्यम् ॥ २० ॥

********************
~~~~~~~~~~~~~~~~~~~~~~~~~~~~